Tuesday, December 25, 2012

"गोविन्दाष्टकं"...

"गोविन्दाष्टकं" जय हो श्री कृष्ण जी.
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं,गोष्ठप्रांगण-रिंगल-लोलमनायासं परमायासम्‌

मायाकल्पितनानाकारमनाकारं भुवनाकारं,क्ष्माया नाथमनाथं प्रणमत गोविंद परमानन्दम्‌ ॥1॥

मृत्स्नामत्सीहेति यशोदाता...डन-शैशव-सन्त्रासं, व्यादित-वक्त्रालोकित-लोकालोक-चतुर्दशलोकालिम्‌।

लोक्त्रयपुरमूलस्तम्भं लोकालोकमनालोकं, लोकेशं परमेशं प्रणमत गोविंदं परमानन्दम्‌ ॥2॥

त्रैविष्टप-रिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं, कैवल्यं नवनीताहारमनाहारं भुवनाहारम्‌।

वैमल्य-स्फुटचेतोवृत्ति-विशेषाभासमनाभासं, शैवं केवलशान्तं प्रणमत गोविंदं परमानन्दम्‌ ॥3॥
गोपालं भूलीलाविग्रहगोपालं कुलगोपालम्‌, गोपीखेलन-गोवर्धन-धृतिलीलालालित-गोपालम्‌।

गोभिर्निगदित-गोविंद-स्फुटनामानं बहुनामान, गोपीगोचरदूरं प्रणमत गोविंदं परमानन्दम्‌ ॥4॥

गोपीमण्डलगोष्ठीभेदं भेदावस्थामभेदाभं, शश्वद्गोखुर-निर्धूतोत्कृत-धूलीधूसर-सौभाग्यम्‌।

श्रद्धाभक्ति-गृहीतानन्दमचिन्त्यं चिन्तितसद्भावं, चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्‌ ॥5॥
स्नानव्याकुल-योषिद्वस्त्रमुपादायागमुपारूढं, व्यादित्सन्तीरथ दिग्वस्त्राद्युपदातुमुपाकर्षन्तम्‌।

निर्धूतद्वय-शोक-विमोहं बुद्धं बुद्धेरप्यन्तस्थं, सत्तामात्रशरीरं प्रणमत गोविंदं परमानन्दम्‌ ॥6॥

कान्तं कारणकारणमादिमनादिं कालमनाभासं, कालिन्दीगत-कालियशिरसि मुहुर्नृत्यन्तं सुनृत्यन्तम्‌।

कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं, कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम्‌ ॥7॥
वृंदावनभुवि वृंदारकगणवृन्दाराधित वन्देऽहं, कुन्दाभामल-मन्दस्मेर-सुधानन्दं सुहृदानन्दम्‌।

वन्द्याशेष-महामुनिमानस-वन्द्यं वृन्दपदद्वन्द्वं,वन्द्योशेषगुणाब्धिं प्रणमत गोविंद परमानन्दम्‌ ॥8॥
गोविन्दाष्टकमेतदधीते गोविंदार्पितचेता यो, गोविंदाच्युत माधव विष्णो गोकुल नायक कृष्णेति।
गोविंदांघ्रिसरोज-ध्यानसुधाजल-धौतसमस्ताधो, गोविन्दं परमानन्दामृतमन्तःस्थं स समभ्येति ॥9॥
See More

No comments:

Post a Comment